अपठित गद्यांश (Apathit Gadyansh) – Sanskrit

(अ) निम्नांकित अपठित गद्यांश को ध्यानपूर्वक पढ़कर उस पर आधारित प्रश्नों के उत्तर निर्देशानुसार लिखें-

1. एक टोपिकाविक्रेता अनेकवर्णाः टोपिकाः विक्रीणाति स्म। एकस्मिन् दिने श्रान्तः सः एकः वृक्षस्य शीतलायां छायायाम् उपविशत् । शनैः शनैः निद्रा तम् स्ववशे अकरोत् । सः पुट शिरस्तले निधाय अस्वपत् । वृक्षे स्थिताः वानराः विविधवर्ण युक्ताः टोपिकाः पुटके दृष्ट् अधः अवतरन् । शनैः शनैः ते पुटकात् टोपिका : निष्कास्य शिरसि धारयित्वा वृक्ष आरोहन् । प्रबुद्धः टोपिकाविक्रेता यदा उपरि पश्यति तदा रक्तनीलवर्णाः टोपिकाः धारय वानरान् पश्यति । ” हा देव। नष्टाः मे सर्वाः टोपिकाः । ” इति विलपन् सः आत्मनः शिर धारितां टोपिकाम् अपि वेगेन भूमौ क्षिपति कथयति च रे दुष्टाः । एताम् अपि नय प्रकृत्या अनुकरणशीलाः वानराः अपि स्वटोपिकाः भूमौ प्रक्षिप्तवन्तः । आश्चर्यचकितः सर्वाः टोपिकाः विचित्य, स्वपुटके स्थापयित्वा प्रसन्नः भूत्वा गृहं प्रति अचलत्।

प्रश्ना:- 1. एक पदेन उत्तरत-
(क) टोपिकाविक्रेता का विक्रीणाति स्म ?
(ख) प्रकृत्या वानराः कीदृशाः भवन्ति ?
2. पूर्णवाक्येन उत्तरत-
(क) प्रबुद्धः टोपिकाविक्रेता वृक्षे किम् अपश्यत् ?
(ख) टोपिकाविक्रेता वानरान् किम् कथयति ?
3. अस्य गद्यांशस्य एकं समुचितं शीर्षकं लिखत ।

उत्तराणि – 1. एकपदेन उत्तरत-
(क) टोपिकाः
(ख) अनुकरणशीलाः
2. पूर्णवाक्येन उत्तरत-
(क) प्रबुद्धः टोपिकाविक्रेता वृक्षे रक्तनीलवर्णा : टोपिकाः धारय वानरान् अपश्यत् ।
(ख) टोपिकाविक्रेता वानरान् कथयंति-रे दुष्टाः ।
3. शीर्षक – टोपिकाविक्रेता

2. महात्मा गांधी भारतस्य राष्ट्रपिता कथ्यते । तस्य जन्म गुजरात-राजस्य पोरबन्दरमनामक स्थाने अभवत् । तस्य पिता कर्मचन्दः माता च पुतलीबाई आस्ताम्। गांधिनः बाल्यनाम मोहनदास आसीत्। कस्तूरबा नामधेया महिल्या सह अस्य विवाहः अभवत् । सत्यम अहिंसा च अस्य जीवनस्य प्रमुखाः आदर्शाः आसन्। सः बिना रक्तपातम् अहिंसात्मक भारतदेशं स्वतंत्रम्
अकरोत् ।

प्रश्ना:-1. एक पदेन उत्तरत-
(क) गांधिनः जन्म कुत्र अभवत्?
(ख) गांधी महोदयस्य माता का आसीत्?
2. पूर्णवाक्येन उत्तरत-
(क) गांधी महोदयस्य जीवनस्य आदर्शा के आसन्?
(ख) गांधी महोदयः कथं भारतदेशं स्वतंत्रम् अकरोत् ?
3. अस्य गद्यांशस्य एकं समुचितं शीर्षकं लिखत ।

उत्तराणि – 1. एकपदेन उत्तरत-
(क) गुजरात राज्यस्य पोरबन्दरनामके
(ख) पुतलीबाई
2. पूर्णवाक्येन उत्तरत-
(क) गाँधी महोदयस्य जीवनस्य आदर्शाः सत्यम् अहिंसा च आसन् ।
(ख) गाँधी महोदय : बिना रक्तपातम् अहिंसात्मक भारतदेशं स्वतंत्रम् अकरोत् ।
3. शीर्षक – राष्ट्रपिता महात्मा गाँधी ।

3. कविकुलगुरुः कालिदासः संस्कृतसाहित्याकाशे शशि इव प्रकाशते । महाकविः विक्रमादित्यभूपतेः राजसभायां नवरत्नेषु प्रमुखः आसीत् । कालिदासस्य काव्येषु भाषायाः रमणीयता, मानवीयप्रकृतेः स्वाभाविकं विश्लेषणं प्राकृतदृश्यानां च सजीवचित्रणं विद्यते अभिज्ञानशाकुन्तलं तस्य विश्वप्रसिद्धं नाटकमस्ति ।

प्रश्ना:- 1. एक पदेन उत्तरत-
(क) क: शशि इव प्रकाशते ?
(ख) कालिदासस्य विश्वप्रसिद्धं नाटकं किम् अस्ति ?
2. पूर्णवाक्येन उत्तरत-
(क) कालिदासस्य काव्येषु किं विद्यते ?
(ख) कालिदासः केषु प्रमुखः आसीत्?
3. अस्य गद्यांशस्य एकं समुचितं शीर्षकं लिखत ।

उत्तराणि – 1. एकपदेन उत्तरत—
(क) कालिदासः
(ख) अभिज्ञानशाकुन्तलम्
2. पूर्णवाक्येन उत्तरत-
(क) कालिदासस्य काव्येषु भाषायाः रमणीयता, मानवीय प्रकृतेः स्वभाविकं विश्लेषणं प्राकृतदृश्यानां च सजीव चित्रणं विद्यते ।
(ख) कालिदासः विक्रमादित्येभूपतेः राजसभायां नवरत्नेषु प्रमुखः आसीत् ।
3. शीर्षक — कविकुलगुरुः कालिदासः

4. सत्यम् इदम् यत् सुखं धनेन प्राप्तुं शक्यते । परन्तु धनेन तु केवल भौतिकं सुखम् एव लभते। मानसिकं सुखं तु कर्त्तव्यपरायणेन, परोपकारेण, सत्संगत्या, भगवद् भजनेन, सत्यम सेवया च प्राप्तुं शक्यते । स्पष्टमिदं यत् मानसिकं सुखमेव वास्तविकं सुखमस्ति । अतः सर्वः मानसिकं सुखं प्राप्तुं प्रयत्नाः समाधेयाः ।

प्रश्ना:- 1. एक पदेन उत्तरत-
(क) धनेन कीदृशं सुखं लभते ?
(ख) सर्वे : मानसिकं सुखं प्राप्तुं के समाधेयाः?
2. पूर्णवाक्येन उत्तरत—
(क) मानसिक सुखं केन प्राप्तुं शक्यते ?
(ख) वास्तविकं सुखं किम् अस्ति ?
3. अस्य गद्यांशस्य एकं समुचितं शीर्षकं लिखत ।

उत्तराणि-1. एक पदेन उत्तरत-
(क) भौतिक
(ख) प्रयत्ना ।
2. पूर्णवाक्येन उत्तरत-
(क) मानसिकं सुखं कर्त्तव्यपरायणेन, परोपकारेण, सत्संगत्या, भगवद् भजनेन, सत्येन सेवया च प्राप्तुं शक्यते ।
(ख) वास्तविकं सुखं मानसिकं सुखं अस्ति ।
3. शीर्षक -मानसिकं सुखम्।

5. “छात्रजीवनं नृणां सर्वाङ्गीणविकासार्थम् अतीव महत्वपूर्ण भवति । सकल समृद्धिदात्र्याः विद्यायाः प्रकाशः अस्मिन् छात्रजीवने एव सुलभो भवति । छात्रजीवने एव सुलभो भवति । छात्रजीवने सदाचारस्य संयमनियम – पालनस्य महिमा गरीयान् वर्तते । सफलं छात्रजीवनम् मानवतायाः विकासक्रमे प्रथमं सोपानम् । सर्वेषां महापुरुषाणां छात्रजीवनं तेषां व्यक्तिवनिर्माणे महत्वपूर्णम् अस्ति । “

प्रश्ना:- 1. एकपदेन उत्तरत-
(i) विद्यायाः प्रकाशः कस्मिन् जीवने सुलभो भवति ?
(ii) कस्य पालनं छात्रजीवने गरीयान् वर्तते ?
2. पूर्णवाक्येन उत्तरत—
(i) नृणां छात्रजीवनं किमर्थं महत्वपूर्ण भवति ?
(ii) मानवतायाः विकासक्रमे प्रथमं सोपानं किम् ?
3. अस्य गद्यांशस्य एकं समुचितं शीर्षकं लिखत ।

उत्तराणि – 1. (i) छात्रजीवने
(ii) संयमनियमस्य
2. (i) नृणां छात्रजीवने सर्वांगीण विकासार्थम् अतीव महत्वपूर्ण भवति ।
(ii) मानवतायाः विकासक्रमे प्रथमं सोपानं सफलं छात्रजीवनम् ।
3. शीर्षक छात्रजीवनम्

6. ‘विद्या’ शब्दस्य अर्थः ‘ज्ञानम्’ अस्ति । एषा विद्या महता प्रयत्नेन लभ्यते । विद्यावान् नरः एव सर्वत्र सम्मानं लभते । विद्या मानवस्य सर्वश्रेष्ठम् आभूषणं वर्तते। एषा कुरूपम् अपि सुरूपं करोति। विदेशे बन्धुवत् साहाय्यं करोति । अनया एव मानवः कीर्ति धनम् सुखम् च लभते । अतः सर्वेः जनैः स्वजीवने सुखं समृद्धिं च प्राप्तुं विद्या प्राप्तये प्रयत्नः करणीयः ।

प्रश्ना:- 1. एकपदेन उत्तरत-
(i) कः सर्वत्र सम्मानं लभते ?
(ii) मानवस्य सर्वश्रेष्ठम् आभूषणं किम् ?
2. पूर्णवाक्येन उत्तरत—
(i) विद्या विदेशे किं करोति ?
(ii) विद्या प्राप्तये किमर्थं यत्नः करणीयः ?
3. अस्य गद्यांशस्य एकं समुचितं शीर्षकं लिखत ।

उत्तराणि – 1. (i) विद्यावान् (ii) विद्या
2. (i) विद्या विदेशे बन्धुत्व साहाय्यं करोति ।
(ii) सर्वे जनैः सुखं समृद्धि च प्राप्तुं विद्या प्राप्तये प्रयत्नः करणीयः ।
3. शीर्षक – विद्यायाः महत्त्वम् ।

7. हिमालयः भारतस्य उत्तरदिशायां स्थितः अस्ति । अस्य शिखराणि सर्ववर्षम् हिमेन आच्छादितानी सन्ति । अतएव तु अय हिमस्य आलयः इति हिमालयः कथ्यते । ग्रीष्मस्य तापेन जना प्रतिवर्ष ग्रीष्मे तत्र गच्छन्ति। अनेके रूग्णाः जनाः अपि तस्य पवित्रे वातावरणे स्वस्थाः भवन्ति । अत्र अनेकानि दर्शनीयानि स्थानानि सन्ति । प्रतिवर्ष भक्ताः अत्र आगच्छन्ति । बद्रीनाथे केदारनाथे च मन्दिरेषु ईश्वरस्य दर्शनं कुर्वन्ति हिमालयात् एव गंगा, शतदुः, चन्द्रभागाः इत्यादयः नद्यः प्रवहन्ति । हिमालयः प्रहरी इव भारतं रक्षति । अस्य रक्षेण एव भारतस्य रक्षणम् ।

प्रश्ना:-
एकपदेन उत्तरत— 1. (i) भारतस्य उत्तरदिशायां कः अस्ति?
(ii) अस्य रक्षणे कस्य रक्षणम् ?
2. पूर्णवाक्येन उत्तरत—
(i) हिमालयः कुत्र स्थितः अस्ति?
(ii) भक्ताः मन्दिरेषु कस्य दर्शनं कुर्वन्ति ?
3. अस्य गद्यांशस्य एकं समुचितं शीर्षक लिखत ।

उत्तराणि -1. (i) हिमालयः
(ii) भारतस्य
2. (i) हिमालयः भारतस्य उत्तरदिशायां स्थितः अस्ति ।
(ii) भक्ता मंदिरषु ईश्वरस्य दर्शनं कुर्वन्ति ।
3. शीर्षक – हिमालय:

8. विजयादशमी अस्माकं देशस्य प्रमुख पर्वम् अस्ति । अस्मिन् दिने भगवान् श्रीरामः लंकापति रावणं युद्धे अजयत् । अयम् उत्सवः अश्विन् मासस्य दशम्यां तिथौ मन्यते, अतः अलं विजयादशमी इत्युच्यते। लंकापति रावणः छलेन सीताम् अहरत् अशोकवाटिकायां च अरक्षत्। तस्य वर्धन रामः सन्दिशति यत् कदापि मानवेन असुराचरणं नैव कर्तव्यम् । रावणस्य वधः आसुरीणां प्रवृत्तीनां वध एव अस्ति ।

प्रश्ना:- 1. एकपदेन उत्तरत—
(i) अस्माकम् देशस्य प्रमुख पर्व किम् ?
(ii) श्रीराम युद्धे के अजयत् ?
2. पूर्णवाक्येन उत्तरत-
(i) ‘विजयादशमी’ इति नाम कथं प्राचलत् ?
(ii) रावणस्य वधः कासां वधः अस्ति ?
3. अस्य गद्यांशस्य एकं समुचितं शीर्षक लिख़त ।

उत्तराणि – 1. (i) विजयादशमी
(ii) लंकापति रावणं
2. (i) विजयादशमी इति नाम अश्विन् मासस्य दशम्यां तिथो अयम् उत्सवः मान्यते अतः अहां विजयादशमी इत्युच्यते ।
(ii) रावणस्य वधः आसुरीणां प्रवृतीनां वधः अस्ति ।
3. शीर्षक विजयादशमी

9. पुरा धारा नगरे प्रजावत्सलो सिन्धुलो नाम राजा आसीत् । तस्य वृद्धावस्थायां भोज इति पुत्रः जातः । यदा स पञ्चवर्षीयः तदा पिता जरावस्थां ज्ञात्वा मुखयामात्यम् आहूय अनुजं मुजं महाबलम् अवलोक्य पुत्रं च वालं वीक्ष्य विचारितवान् यदि अहं राज- लक्ष्मीभारधारणसमर्थं सोदरं असहाय राज्यं पुत्राय प्रयच्छामि तदा लोकापवादः भविष्यति । अथवा बालं मे पुत्रं द्वेषादिना मुज्ञः मारिष्यति तदा दत्तमपि राज्यं वष्टथा । इति विचार्य राज्यं मुब्जाय दत्तवान् । तस्याङ्के आत्मजं भोजं च रक्षायै समर्पितवान् ।

प्रश्ना:- 1. एकपदेन उत्तरत-
(i) धारानगरे कः राजा आसीत्?
(ii) राजा राज्यं कस्मै दत्तवान् ?
2. पूर्णवाक्येन उत्तरत-
(i) स्वकीयां जरावस्थां ज्ञात्वा राजा किं कृतवान्?
(ii) राजा किं विचारितवान् ?
3. अस्य गद्यांशस्य एकं समुचितं शीर्षकं लिखत ।

उत्तराणि – 1. (i) सिन्धुल
(ii) मुञ्जाय
2. (i) स्वकीयां जरावस्था ज्ञात्वा राजा राज्यं मुब्जाय दत्तवान्। तस्याङ्के आत्मजं भोजं च रक्षायै समर्पितवान् ।
(ii) राजा विचारितवान् यदि अहं राज- लक्ष्मीभार धारणमसमर्थं सोदरं असहाय राज्यं पुत्राय प्रयच्छामि तदा लोकापवादः भविष्यति । अथवा बालं मे पुत्रं द्वेषादिना मुञ्जः मारिष्यति ।
3. प्रजावत्सलः राजा।

10. रामायणे जीवनस्य उदात्ताः आदर्शाः चित्रिताः । एतस्य प्रत्येकं पात्रं कमपि न कमपि आदर्शम् अस्माकम् पुरतः स्थापयति । आदर्शभ्राता कः भवति । आदर्शपतिः कः भवति ? आदर्शनृपः कः भवति ? आदर्शस्वामिभक्तः कः भवति । आदर्शा भार्या का भवति ? एतेषां सर्वेषां प्रश्नानां समाधानं रामायणे प्राप्यते । रामायणं स्पष्टम् उद्घोषयति यत् अन्ततः सत्यमेव जयते, नानृतम्। एषाम् आदर्शानाम् आधुनिके अशान्तिपूर्ण युगे महती अपेक्षा वर्तते । रामायणस्य आदर्शान् परिगृह्य देशस्य वातावरणम् इदानीमपि शान्तिमयं भवितुं शक्नोति । रामायणम् अस्मभ्यं भ्रातृभावस्य सहिष्णुतायाः सौहार्द्रस्य च शिक्षाम् ददाति । रामायणं परवर्तिनाम् अनेकेषां काव्यानाम् मूलस्रोतः वर्तते । भारतस्य सर्वासां भाषाणाम् अनेकानि काव्यानि रामायणे आधृतानि सन्ति। रामाणस्य सांस्कृतिकं महत्त्वमपि अक्षुण्णम् अस्ति । प्राचीनभारतस्य वास्तविकं चित्रं द्रष्टुं रामायणस्य अध्ययनम् परमावश्यकम् ।

प्रश्ना:- 1. एकपदेन उत्तरत-
(i) जीवनस्य उदात्तादर्शाः कुत्र चित्रिता : ?
(ii) रामायणस्य प्रत्येकं पात्रं किं स्थापयति ?
2. पूर्णवाक्येन उत्तरत-
(i)रामायणे केषां प्रश्नानां समाधानं प्राप्यते ?
(ii) रामायणं स्पष्टं किम् उद्घोषयति ?
3. अस्य अनुच्छेदस्य कृते समुचितं शीर्षक लिखत ।

उत्तराणि – 1. (i) रामायणे
(ii) आदर्शम्
2. (i) आदर्श : भ्राता कः ? पतिः कः ? नृपः कः ? स्वामिभक्तः कः ? आदर्शा भार्या का? इत्येतेषाम् प्रश्नानां समाधानं रामायणे प्राप्यते ।
(ii) रामायणं स्पष्टम् उद्घोषयति यत् अन्ततः सत्यमेव जयते ।
3. रामायणम् / रामायण – गौरवम् ।

11. भारतम् अस्माकं प्रियः देशः । एषः देश देशानां शिरोमणिः खलु । अस्य प्राकृतिक सौन्दर्य बलवत् मनः मोहयति । अस्य उत्तरदिशायाम् पर्वतराजः हिमालयः विराजते । एषः पर्वतः प्रहरी खलु । भारतस्य दक्षिणदिशायाम् महासागरः अस्य चरणौ प्रक्षालयति । अस्य अंके अनेकाः नद्यः क्रीडन्ति । एतासां नदीनाम् तटेषु महान्ति नगराणि विराजन्ते । एतासां नदीनाम् जलं क्षेत्राणां सेचनाय विद्युत उत्पादनाय च प्रयुज्यते । भारतस्य हरित – हरितानि वनानि अस्य शोभां निरन्तरं वर्धयन्ति ।

प्रश्ना:- 1. एकपदेन उत्तरत-
(i) अस्माकं देशः कः ?
(ii) भारतस्य उत्तरदिशायां कः विराजते ?
2. पूर्णवाक्येन उत्तरत—
(i) भारतस्य अंके काः क्रीडन्ति ?
(ii) नदीनां जलं केभ्यः प्रयुज्यते ।
3. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं यच्छत ।

उत्तराणि – 1. (i) भारतम्
(ii) हिमालयः
2. (i) भारतस्य अंके अनेकाः नद्यः क्रीडन्ति ।
(ii) नदीनां जलं क्षेत्राणां सेचनाय विद्युतः उत्पादनाय च प्रयुज्यते ।
3. अस्माकं देश: / मम प्रियदेशः / समृद्धं भारतम् ।

12. अद्य वने पशुमहोत्सवः वर्तते । मंचस्य उपरि सिंहः विराजते। आकाशे सर्वत्र मेघाः सन्ति। मेघान् दृष्ट्वा मयूराः वृक्षाणाम् अधः नृत्यन्ति । पशवः इतस्ततः भ्रमन्ति । सर्पः कोटरात् वहिः आगच्छति । सर्पात् भीताः पशव: कोलाहलं कुर्वन्ति । कोलाहलं श्रुत्वा सिंहः उच्चैः गर्जति आदिशति च – भो । कोलाहलं मा कुरुत शृणुत च – “अस्माकं जीवनं वृक्षान् बिना असम्भवम् । वृक्षाः पुष्पाणि, फलानि छायां च दत्वा अस्मान् उपकुर्वन्ति । अतः अस्माभिः वने वृक्षाः नूनम् रक्षणीयाः ।

प्रश्ना:- 1. एकपदेन उत्तरत-
(i) मञ्चस्य उपरि कः विराजते ?
(ii) वने कः महोत्सवः अस्ति ?
2. पूर्णवाक्येन उत्तरत—
(i) सिंहः किम् आदिशति ?
(ii) अस्माभिः के रक्षणीया: ?
3. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।

उत्तराणि – 1. (i) सिंह:, (ii) पशु ।
2. (i) सिंह: आदिशति – भोः ! कोलाहलं मा कुरुत शृणुत च- अस्माकं जीवनं वृक्षान् विना असम्भम् ते अस्मान् उपकुर्वन्ति । अतः वृक्षाः रक्षणीयाः ।
(ii) अस्माभिः वृक्षाः रक्षणीयाः ।
3. जीवने वृक्षाणां महत्त्वम् / वृक्षान् विना जीवनं कुतः / वृक्षाणां महत्त्वं ।

13. उद्योगः सर्वं कार्यम् साधयति । उद्योगं परित्यज्य केवलं भाग्योपरि न स्थितो भवेत् । केवलं भाग्यवादी जनः संसारे किमपि कार्यं कर्त्तुं न शक्तः भवति । यद्यपि सर्वस्मिन् कार्ये भाग्येन सफलता किंवा असफलता भवति, तथापि उद्योग: मानवस्य धर्मः । सिंहः हरिणं हन्ति खादति च इति सर्वे जानन्ति । तथापि यदि सिंह उद्योगं न करोति तदा तस्य मुखे हरिणः स्वयं न प्रविशति ।

प्रश्ना:- 1. एकपदेन उत्तरत-
(i) उद्योगः किं साधयति ?
(ii) कः संसारे किमपि कर्तुम् न शक्तः ?
(iii) हरिणम् कः हन्ति ?
(iv) कस्य मुखे हरिणः स्वयं न प्रविशति ?
2. पूर्णवाक्येन उत्तरत-
(i) कम् परित्यज्य केवलं भाग्योपरि न स्थितो भवेत् ?
(ii) उद्योगः किम् अस्ति ?
3. अस्य गद्यांशस्य समुचितम् शीर्षकं लिखत ।

उत्तराणि – 1. (i) कार्यम्, (ii) भाग्यवादी, (iii) सिंह:, (iv) सिंहस्य
2. (i) उद्योगं परित्यज्य केवलं भाग्योपरि न स्थितो भवेत् ।
(ii) उद्योग: मानवस्य धर्मः अस्ति ।
3. उद्योगः कर्त्तव्यः

14. अहं सुंदरं पुष्पम् अस्मि । यूयं सर्वे मां जानीथ । मम नाम पाटलम् अस्ति । रक्तः मम वर्णः। अहम् उद्याने तिष्ठामि । सर्वेषां चित्तम् चोरयामि । पवनः माम् चंचलं करोति । सूर्यकिरणा: मां कासयन्ति । चन्द्रस्य चन्द्रिका अपि स्नेहरसं वर्षति । अहं सदा हसामि । मम अन्ये अपि वर्णाः सन्ति । तैः उद्यानस्य शोभा भवति। अहं जनानां कण्ठहारः भवामि । देवानां पूजायां मम उपयोगः भवति । ईदृशम् उच्चपदं प्राप्य अहं गौरवम् अनुभवामि। अहं यत्र तिष्ठामि तत्र सौरभं
धारयामि । अल्पकाले जीवने अपि अहं प्रसन्नः अस्मि । सुखे वा दुःखे वा सर्वे जनाः आनन्दम् अनुभवेयुः । ते अहम् इव हसेयुः । एषोऽस्ति मम अभिलाषः ।

प्रश्ना:- 1. एकपदेन उत्तरत-
(i) केषां पूजायां पाटलस्य उपयोगः भवति ?
(ii) पाटलं के विकासयन्ति ?
2. पूर्णवाक्येन उत्तरत-
(i) पाटलस्य कः अभिलाष: ?
(ii) का पाटले स्नेहरसं वर्षति ?
3. अस्य गद्यांशस्य उपयुक्तं शीर्षक लिखत ।

उत्तराणि – 1. (i) देवानाम् (ii) सूर्यकिरणा:
2. (i) सुखे वा दुःखे वा सर्वे जनाः आनन्दम् अनुभवेयुः । ते पाटलम् इव हसेयुः इति पाटलस्य अभिलाज़ : ।
(ii) चन्द्रस्य चन्द्रिका पाटले स्नेहरसं वर्जति ।
3. पाटलस्य आत्मकथा ।

15. वाल्मीकिः संस्कृतभाषायाः आदिकविः कथ्यते । पूर्वमस्य नाम रत्नाकरः आसीत् । अयं दस्युकर्मणा स्वजीवन निर्वाहमकरोत् । एकदा ऋषयः हस्ते आपतन् । एष धनमयाचत् । तेऽवदनम् किमेतस्मिन् पापकर्मणि तव परिवारस्य सदस्याः फलस्यापि सहभागिनः भविष्यन्ति ? अयं तान् रज्जुभिः बद्ध्वा स्वगृहमगच्छत् अपृच्छत् च परिवार सदस्यान् तमेव प्रश्नम् । तेऽवदन् अस्माकं परिपालनं तव कर्तव्यम्। न वयं पापे सहभागिनः । एतेनास्य ज्ञानचक्षुषी उन्मीलिते । यदा ऋष्याज्ञया सः राम नाम अजपत् । तदाऽयं वल्मीकैः परिवृतः अभवत्, वाल्मीकिः इति नाम्ना च प्रख्यातः अभवत् ।

प्रश्ना:- 1. एकपदेन उत्तरत-
(i) कः दस्युकर्मण स्वजीवनस्य निर्वाहं करोस्ति स्म ?
(ii) रत्नाकरस्य हस्ते के अपतन् ?
2. पूर्णवाक्येन उत्तरत—
(i) कः रामनाममंत्रम् अग्रहीत् ?
(ii) कस्य नेत्रे कथं च उन्मीलिते?
3. अस्य गद्यांशस्य उपयुक्तं शीर्षक लिखत ।

उत्तराणि – 1. (i) रत्नाकर:, (ii) ऋषयः ।
2. (i) रत्नाकरः रामनाममन्त्रम् अग्रहीत् ।
(ii) अस्माकं परिपालनं तव कर्त्तव्यम् । न वयं पापे सहभागिनः भविष्यामः इति श्रुत्वा रत्नाकरस्य त्रे ने उन्मीलिते।
3. आदिकवि वाल्मीकि :

16. देशस्य भक्तिः देशभक्तिः कथ्यते । देशभक्ति भावनया एव सैनिकाः अन्ये जनाः च देशहिताय स्वप्राणान् अपि त्यक्तुम् इच्छन्ति । कवयः च वदन्ति – जननी जन्मभूमिश्च स्वर्गादपि गरीयसी । लोकानां शरणदायिनी, नानाभोज्यपदार्थप्रदायिनी एषा अस्माकं जन्मभूमिः वीरभूमिः अस्ति । राष्ट्रसंरक्षणाय परस्परम् एकतायाः भावना अपेक्षिता । यस्य नरस्य हृदये राष्ट्रभावना नास्ति तस्य जीवनं निष्फलम् अस्ति । युद्धक्षेत्रे वीराः देशस्य रक्षणार्थं स्वप्राणान् समर्पितवन्तः । यदा एवं देशवासिषु एतादृशी भावना भविष्यति तदा देश: नूनम् उन्नतिं करिष्यति ।
यस्य नरस्य हृदयं राष्ट्रप्रेमभावनया भरितं नास्ति तत् हृदयं पाषाणतुल्यम् । अस्माभिः स्वार्थं परित्यज्य देशस्य उन्नतिः देशवासिनां च सेवा करणीया ।

प्रश्ना:- 1. एकपदेन उत्तरत-
(i) सैनिकाः अन्ये जनाः च देशहिताय किं त्यक्तुम् इच्छन्ति ?
(ii) अस्माकं जन्मभूमिः कीदृशी अस्ति ?
2. पूर्णवाक्येन उत्तरत-
(i) केषां हृदयं पाषाणतुल्यम् अस्ति ?
(ii) राष्ट्रसंरक्षणाय का अपेक्षिता अस्ति?
3. अस्य अनुच्छेदस्य उपयुक्तं शीर्षक लिखत ।

उत्तराणि – 1. (i) स्वप्राणान् (ii) वीरभूमिः
2. (i) येषां हृदये राष्ट्रप्रेम भावना न अस्ति तेषां हृदयं पाषाणतुल्यम् अस्ति ।
(ii) राष्ट्र – संरक्षणाय परस्परम् एकतायाः भावना अपेक्षिता अस्ति ।
3. जन्मभूमिः / देशभक्तिः / राष्ट्रीयता ।

17. श्रवणकुमारः श्रद्धया पितरौ सेवते स्म । दुर्भाग्यात् पितरौ नेत्राभ्याम् अन्धौ अभवत्। श्रवणकुमारः अन्धौ पितरौ यथाकालम् भोजनादिकं यक्षति स्म । तयोः : सुखाय च सततं यतते स्म । एकदा श्रवणकुमारस्य माता तमवदत् -” पुत्र आवां नेत्राभ्याम् अन्धौ स्वः । आवां तीर्थयात्रायै गन्तुमिच्छावः । केन प्रकारेण आवयोः इच्छायाः पूर्तिः भविष्यति । ” श्रवणोऽवदत्-” मातः । अलं चिन्तया । अधुना अहं युवकोऽस्मि । एकां विहङ्गिकां रचयिष्यामि । एकतः भवतीं द्वितीयतः च पितरमुपवेशयिष्यामि । विहङ्गिकां च स्कन्धाभ्यामुत्थापयिष्यामि । एवं च भवतो: तीर्थयात्रा भविष्यति ।

प्रश्ना:- 1. एकपदेन उत्तरत-
(i) कः पितरौ सेवते स्म ?
(ii) पितरौ काभ्याम् अन्धौ अभवत्?
2. पूर्णवाक्येन उत्तरत—
(i) एकदा श्रवणकुमारस्य माता तं किम् अवदत् ?
(ii) ‘मातः । अलं चिन्तया । कः कां कथितवान् ?
3. अस्य गद्यांशस्य उपयुक्तं शीर्षकं लिखत ।

उत्तराणि – 1. (i) श्रवण कुमार:
(ii) नेत्राभ्याम्
2. (i) एकदा श्रवणकुमारस्य माता तं अवदत् – “पुत्र आवां नेत्राभ्याम् अन्धौ स्वः । आवां तीर्थयात्रायै गन्तुमिच्छावः । केन प्रकारेण आवयोः इछायाः पूर्तिः भविष्यति । “
(ii) मातः। अलं चिन्तया । श्रवणकुमारः पितरौ कथितवान् ।
3. पितृभक्त: श्रवण कुमार:

18. देवेषु कः प्रथमः पूज्यः इति देवसभायां विवादस्य विषयः आसीत् । सर्वे देवाः कोलाहलं कुर्वन्ति—” अहं प्रथमः पूज्यः । अहं प्रथमः पूज्यः । ” तत्र निर्णयस्य न कश्चित् मार्गः आसीत् । तदा सर्वे देवाः विष्णुं मध्यस्थं मत्वा विष्णुलोकम् अगच्छन्। देवानां निश्चयः आसीत् — “भगवान् विष्णुः यं श्रेष्ठं घोषयिष्यति तस्य एव पूजा अग्रे भविष्यति । ” देवानां विवाद विषयं श्रुत्वा विष्णुः अवदत्—“ यः स्वल्पतमेन कालेन वारत्रयं पृथिव्याः प्रदक्षिणां करिष्यति तस्य देवस्य अग्रे पूजा भविष्यति । “

प्रश्ना:- 1. एकपदेन उत्तरत—
(i) देवेषु कः प्रथमः पूज्यः इति कुत्र विवादस्य विषयः आसीत्?
(ii) सर्वे देवाः कं मध्यस्थं मत्वा विष्णुलोकम् अगच्छन् ?
2. पूर्णवाक्येन उत्तरत—
(i) देवानां कः निश्चयः आसीत्?
(ii) विष्णुः किम् अवदत् ?
3. अस्य गद्यांशस्य कृते एकं समुचितं शीर्षकं लिखत ।

उत्तराणि – 1. (i) देवसभायां (ii) विष्णुं
2. (i) देवानां निश्चयः आसीत् – “भगवान् विष्णुः यं श्रेष्ठं घोषयिष्यति तस्य एव पूजा अग्रे भविष्यति।”
(ii) विज्णुः अवदत् – ” यः स्वल्पमतेन कालेन वारत्रयं पृथिव्याः प्रदक्षिणां करिष्यति तस्य देवस्य अग्रे पूजा भविष्यति । “
3. कः प्रथमः पूज्यः ?

19. ऋतूनां श्रेष्ठः वसन्तः अस्ति । अतः स ऋतुराज इति कथ्यते । सर्वे कवयः वसन्तं वर्णयन्ति । संस्कृतस्य महाकवेः कालिदासस्य काव्ये वसन्तस्य शोभा अतीव रमणीया अस्ति । तस्य ” ऋतुसंहार” नाम्नि काव्ये षड्-ऋतूनां वर्णनं विद्यते । चैत्र वैशाखयोः वसन्तः इति संज्ञा विद्यते । वसन्तऋतौ पादपेषु लतासु च नूतनानि किसलयानि प्रस्फुटन्ति । आम्रवृक्षेषु मञ्जर्यः जायन्ते । बहुविधानि पुष्पाणि वृक्षेषु लतासु च विकसन्ति । आम्राणां उद्यानेषु कोकिलाः कूजन्ति । विकसितेषु कुसुमेषु भम्रराः गुञ्जन्ति ।

प्रश्ना:- 1. एकपदेन उत्तरत-
(i) ऋतूनां श्रेष्ठः कः अस्ति?
(ii) षड्-ऋतूनां वर्णनं कुत्र विद्यते ?
2. पूर्णवाक्येन उत्तरत-
(i) कुत्र वसन्तस्य शोभा रमणीया अस्ति?
(ii) कदा किसलयानि प्रस्फुटन्ति ?
3. अस्य गद्यांशस्य समुचितं शीर्षकं लिखत ।

उत्तराणि 1. (i) वसन्तः, (ii) ऋतुसंहारे ।
2. (i) संस्कृतस्य महाकवेः कालिदासस्य काव्ये वसन्तस्य शोभा अतीव रमणीया अस्ति ।
(ii) वसन्त ऋतौ पादपेषु लतासु च नूतनानि किसलयानि प्रस्फुटन्ति ।
3. ‘वसन्तवर्णनम् ‘