संस्कृत निबंध – लेखन | अनुच्छेद लेखन
1. जलसंरक्षणम्
अस्माकं जीवने जलस्य महत्वं अस्ति । जलेन नद्यः, तडागाः, कूपाः च अस्तित्वं भवति । जलसंरक्षणाय तडागादि निर्माणं करणीय। सर्वकार अपि जलसंरक्षणार्थं जागरूक अभियानं चालयति । अस्य महत्वं ग्रीष्मकाले भवति । जलं बिना धारायां जीवनं संभवं न भवति । अतः सत्योक्त ” जलमेव जीवनम् । “
2. मम प्रियः शिक्षकः
मम प्रियः शिक्षकः संस्कृतस्य शिक्षकः अस्ति । तस्य नाम्नः श्री डा० उमेश शर्मा अस्ति । मम शिक्षकः छात्रेभ्यः अतीव प्रियः अस्ति । अयं संस्कृतविभागस्य अध्यक्षः अस्ति। अस्य परीक्षा परिणामः शतप्रतिशतं भवति । सः संस्कृतभाषायाः वक्ता वर्त्तते । मम प्रियः शिक्षकः योग्य वक्ताः अपि वर्तते ।
3. महाभारतम्
महाभारतं भारतस्य प्रमुखः ग्रन्थः वर्तते । अस्मिन् भरतवंशीयं – कौरवपाण्डवानां वर्णनम् अस्ति। द्रौपद्या दुर्योधनस्य अपमानं एव युद्धस्य कारणम् अस्ति। भीष्मपितामहः महाभारतस्य सर्वपूज्यः महापुरुषः अस्ति । कौरवपाण्डवानां पितामह भीष्म आसीत् । महाभारतस्य रचनाकार: महर्षि वेदव्यासः अस्ति । अस्य अंश ‘गीतानाम्ना’ अस्मिन् विश्वे प्रतिष्ठितः ।
4. मम प्रियनेता
अस्माकं प्रियनेता श्री अटल बिहारी बाजपेयी अस्ति । सः देशस्य पूर्व प्रधानमंत्री अस्ति । तस्य हृदये सर्वेषां कृते स्थानं वर्त्तते । कटुभाषणं तस्य कदापि न भवति । चतुर्भुजमार्गः तस्य अपूर्वकृतिः अस्ति । अस्मिन् समये सः सम्पूर्ण जगति शान्तिप्रियः महापुरुषः अस्ति । अयं नेता मह्यं अति रोचते ।
5. रक्षाबंधन पर्व :
इदं पर्वं श्रावणमासस्य पूर्णिमायां तिथिं मान्यते । भारते रक्षाबन्धनपर्व उत्साहेन मान्यते । प्रातः एव भगिनी स्व भ्रातुः हस्ते राखीबन्धनं करोति । भ्राताः प्रमुदित्तमनः भूत्वा भगिन्यै उपहारं यच्छति । इदं पर्व सम्पूर्णे देशे श्रद्धया मान्यते । सर्वे प्रमुदितमनाः अपि भवन्ति । अस्मिन् दिवसे सर्वगृहेषु अनेकानि व्यंजनानि पचन्ति ।
6. व्यायामः
शरीरस्य विशेषः आयामः व्यायामः कथ्यते । धावन-भ्रमणक्रीडनादिभिः आयामैः शरीरं श्रान्तकरणमेव व्यायामः उच्यते । अनेन शरीराणि पुष्टानि भवन्ति । शरीरे रक्तसंचालनक्रिया वेगेन भवति । प्रस्वेदैः शरीरात् आमयं विषं च निर्गच्छन्ति । व्यायामेन पाचनक्रिया सम्यक् भवति । यदा शरीरं स्वस्थं भवति तदा जनाः मनसा कार्यं कुर्वन्ति । स्वस्थ शरीरे एव स्वस्थं मस्तिष्कं भवति ।
7. रामायणम्
रामायणं महर्षि वाल्मीकिना विरचरितम् अस्ति । रामायणे श्री रामस्य चरितं वर्णितं विद्यते । अयं ग्रन्थः सप्तकाण्डेषु विभक्तः अस्ति । अस्मिन् मानवजीवनस्य विभिन्न पक्षस्य चित्रं चित्रितं वर्त्तते । रामायणे राम-रावण युद्धमाध्यमेन सत्यस्य विजयम्अ सत्यस्य च पराजयं दर्शितम् अस्ति। अनेन कविः समाजे नैतिकता – सदाचार भ्रातृभावादयः सद् गुणानां महत्त्वं दर्शयति। रामायणम् आदिकाव्यं मन्यते।
8. परोपकारः
परेषां उपकारः परोपकारः भवति । परोपकारं विना मानवः पशुः इव भवति । इयं प्रकृतिः अपि अस्मान् परोपकारं शिक्षयति । वृक्षाः परोपकाराय एव फलन्ति । नद्यः अपि परोपकाराय वहन्ति । प्रकृतेः प्रत्येकं वस्तु परेषाम् कल्याणाय एव भवति । अतः सर्वैः मानवैः सदा परोपकारः करणीयः । सर्वेषु जीवेषु दया, परेषां हितं दीनानां पोषणं दुर्बलानां च रक्षणम् इत्यादयोऽपि परोपकारस्य एव लक्षणानि सन्ति । अतः स्वार्थत्यागं कृत्वा अन्येजां कल्याणाय चिन्तनं सज्जनानां स्वभावः भवति । अतएव उच्यते ‘परोपकाराय सतां विभूतयः । ‘
9. हिमालयः
हिमालयः सम्पूर्णे भूभागे पर्वतानां राजा । अयं संसारे ये पर्वताः तेषु सर्वेषु उच्चः, प्राचीनः श्रेष्ठः च अस्ति । अयं पर्वतः सृष्टेः आदिकालात् एव अस्माकं शास्त्रीय ग्रन्थेषु पुराणेतिहास पुस्तकेषु च प्रसिद्धः । अस्य महिमानं कवयो, शास्त्रकाराः ऋषयः मुनयः च गायन्ति । अयं भारतस्य उत्तरस्यां पूर्वापरसमुद्रपर्यन्तं विस्तृतः अस्ति । अस्य क्रोडे भारतस्य अनेके भूभागाः सन्ति । अस्मिन्नेव औषधीनां प्रचुर परिमाणं प्राप्यते । अत्र गृहनिर्मानार्थ काष्ठानि, मिलन्ति नद्यः निर्गच्छन्ति । हिमालयः अस्माकं रक्षकः पुराणपुरुषः, संकटकाले शक्ति संचारकः च अस्ति ।
10. वर्षा ऋतु
वर्षाऋतुः कृषिकार्यस्य कृते परमावश्यकः अस्ति । अस्मिन् काले पृथिव्यां हरितानि तृणानि सर्वत्र दृश्यन्ते, शस्य क्षेत्राणि अपि शोभन्ते । नद-नद्यः च परिपूर्णाः भवन्ति । कृषि कार्यम् अस्योपरि निर्भरम् अस्ति । आकाशे जलपूर्णाः मेघाः इतस्ततः दृश्यन्ते । जलपूर्ण आकाशं दृष्ट्वा मयूराः नृत्यन्ति । वर्षाकालः विशेषतः कृषकेभ्यः अतीव रोचते । अयं ऋतुः रोमाञ्चक भवति ।
11. महापुरुषः
भारतवर्षे कपिलवस्तु नाम नगरी अस्ति । अत्रैव शाक्यवंशे महात्माबुद्धः जनिं लेभे । अस्य पिता शुद्धोदनः माता च माया आसीत् । अस्य पूर्वनाम सिद्धार्थः आसीत् । बाल्यात् एवं अयम् गम्भीरः विरक्तः च आसीत् । अयम् वैराग्यम् गृहीतवान् । बोधगयाम् आगत्य अयं ज्ञानम् प्राप्तवान् ।
12. अस्माकम् प्रियकविः / कालिदासः
महाकविः कालिदासः संपूर्णस्य विश्वस्य सर्वश्रेष्ठः कवि मन्यते । भारतीये साहित्ये सः कविकुलगुरुः इति उपाधिना अलंकृतः वर्तते । महाकवि कालिदासः महान् काव्यकारः, नाटककारः, गीतिकाव्यकारः चासीत् । अयं महाकविः राज्ञः विक्रमादित्यस्य नवरत्नेषु अन्यतमः आसीत् । अस्य महाकवेः सप्तकाव्यानि लोकप्रसिद्धानि सन्ति । अभिज्ञानशाकुन्तलं, विक्रमोर्वशीयं मालविकाग्निमित्रं चेति त्रीणि नाटकानि कालिदासविरचितानि सन्ति । रघुवंशं कुमारसंभवं चास्य दुवे महाकाव्ये सुप्रसिद्धे स्तः। मेघदूतं, ऋतुसंहारः चास्य कवेः दुवे खंडकाव्ये स्तः । अस्य कवेः उपमा विष्ठवप्रसिद्धा अस्ति। सौन्दर्यवर्णने कालिदासः अनुपमः वर्तते । अस्य काव्येषु शृंगार सप्राधान्यं वर्तते । अस्य काव्य प्रतिभा विलक्षणा अस्ति ।
13. ए०पी०जे० अब्दुल कलाम
कलामस्य जन्म तमिलनाडुप्रांतस्य सुदूरं ग्रामे अभवत् । तस्य परिवारं निर्धन आसीत्। सः बाल्यावस्थाया मेधावी आसीत् । सः मिसाईल पुरुषः कथ्यते । सः भारतस्य राष्ट्रपति अपि अभवत् । सः भारतरत्न सम्मानं अकरोत् । सः सर्वधर्माणां सम्मानं करोति स्म ।
14. होलिकोत्सवः
अस्माकं देशे अनेके उत्सवाः भवन्ति । तेषु होलिकोत्सवः उत्साहवर्द्धकः भवति । अयम् उत्सवः वसंते भवति । फाल्गुन पूर्णिमायां होलिकादाहः भवति । होलिका वासनाप्रतिमूर्तिः हिरण्यकशिपोः भगिनी आसीत् । अस्याम् एव रात्रौ तस्याः दाहः भवति। तस्या एव प्रीतये अश्लीलशब्दयुतानि गीतानि गीयन्ते । चैत्रकृष्ण प्रतिपदायां एषः वसन्तोत्सवः भवति । अस्मिन् दिवसे गृहे गृहे शष्कुली – पुपपायसादिभोजनं पच्यते। विविध-रंगमयानि जलानि जनेषु निक्षिप्यन्ते । कर्दमानि अपि केचन जनाः क्षिपन्ति । जनाः सांयकाले बहुविधम् गीतं गायन्ति । जनाः गृहं गृहं गत्वा अवीरालेपनं कुर्वन्ति स्वागतं च प्राप्नुवन्ति ।
15. दुर्गापूजा / विजयादशमी
विजयादशमी प्रति वर्षे आश्विनमासे शुक्ल पक्षस्य दशम्यां तिथौ भवति । प्रायः सर्वत्र अस्मिन् दिवसे एव पर्व इदं मन्यते । दशम्यां तिथौ एव रामः रावणं हतवान् । असत्यस्योपरि सत्यस्य विजयः जातः । प्रतिपदा प्रभृति दशमी यावत् अयम् उत्सवः आयोजयते। बङ्गप्रान्ते दुर्गापूजा सर्वतः प्रसिद्धा । देव्याः पूजनेन मानवस्य न कुत्रापि पराजयो भवति ।
16. सरस्वती पूजा
विद्यायाः अधिष्ठात्री देवी वर्त्तते सरस्वती । अस्याः विशेष पूजा माघमासस्य शुक्ल पञ्चम्यां तिथौ प्रतिवर्षं आयोज्यते एतदेव सरस्वती पूजेतिनाम्ना प्रसिद्धा अस्ति । विद्याभिलाषिभिः छात्रैः श्रद्धया भक्तिभावेन च सरस्वत्याः पूजां कुर्वन्ति । सरस्वत्याः वाहनं हंसः अस्ति। ‘वीणापुस्तकधारिणी’ अपि सरस्वत्याः अपरं नाम । कमलासिनी श्वेतवसनेयं याचकेभ्यः सदा मुक्तहस्तैः विद्यां ददाति । सरस्वत्याः पूजा प्रति महाविद्यालये, विद्यालये, पुस्तकालये च भवति ।
17. प्रिय लेखकः
मम प्रिय लेखकः बाणभट्टः अस्ति। सः प्रसिद्धस्य सम्राजः हर्षवर्धनस्य सभा पण्डित आसीत् । तस्य जन्म ब्राह्मणों कुलोत्पन्न अभवत् । वाणस्य मातुः नाम राज्यदेवी आसीत् । बाणस्य द्वौसहोदरौ चित्रसेनः मित्रसेनश्च आस्ताम् । बालवयस्येव संस्कारः कृतः । तस्य कृति हर्षचरितम् कादम्बरी चादि । हर्षचरितम् महाकवेः वाणस्य प्रथमा रचना अस्ति ।
18. डॉ० राजेन्द्र प्रसाद
डॉ० राजेन्द्र प्रसादः स्वतंत्र भारतस्य प्रथमः राष्ट्रपतिः अस्ति । अयं महानुभाव महान बुद्धिमान् तथा व्यावहारिकः आसीत । अस्य महापुरुषस्य जन्म बिहार राज्यस्य सारणमंडले जीरादेई ग्रामे संभ्रांत कायस्थपरिवारे अभवत् । विधि – शास्त्रस्य सर्वोच्च परीक्षायां उत्तीर्ण सः प्रथमं अध्यापन कार्य कृतवान । तत्पश्चात गांधी महोदस्य प्रभावात् स्वतंत्रता संग्रामे अवतीर्ण जातः । गाँधी महोदयेन सह सः सत्या ग्रहान्दोलने स्वयोगदानं कृतवान । सः महान देशभक्त जनतायाः सेवाकार्ये सदा संलग्नः आसीत् ।
19. शरद् ऋतु
आश्विन – कार्तिक मासौ शरद ऋतुः भवतः । वर्षाकाले समाप्ते प्रतिवर्षम् अयं ऋतुः महताम् उत्सवानां समूहः भवति। आकाशः निर्मलः भवति । चन्द्रः प्रकाशते कमलानि पुष्पाणि च विकसन्ति । विविधानि पुष्पाणि वृक्षेषु, लतासु च जायन्ते । अस्मिन्नेव ऋतौ शालिः फलति, नद्यः स्वच्छ जलेन पूरिताः भवन्ति । लोकाः शेषरात्रौ उत्थाय स्वे- स्वे कर्मणि लग्नाः भवन्ति । वसंतं विहाय अयमेव ऋतुः सर्वेषां प्रियतमः ।
20. संस्कृत भाषायाः महत्त्वम्
संस्कारकृता परिष्कृता च या भाषा सा संस्कृतभाषा भाषेयं विश्वस्य प्राचीनतमासु भाषासु अन्यतमा विद्यते । अस्यामेव भाषायां विश्वस्य प्राचीनतमं लिखितं साहित्यं ‘वेदः’ इति उपलभ्यते। अत्रैव रामायणमहाभारत चरकसंहितावहत्संहिता – आर्यभट्टीयञ्चादयः जीवनोपयोगिग्रन्थाः अभिज्ञानशाकुन्तलम् सदृशं विश्वविख्यातं साहित्यञ्च प्राप्यन्ते । संस्कृते एव वेदव्यास वाल्मीकि कालिदासादयः महान्तः साहित्यकाराः सञ्जाताः येषां कृतिभिः जगदालोकितम् अस्ति। कम्प्यूटर-कृतेयं भाषा अतिसहायिका इति आधुनिकैः वैज्ञानिकैः प्रोच्यते। अतएवेयं भाषा वस्तुतः महद्महत्त्वपूर्णेति ।
21. छात्र जीवनम्
छात्रजीवनं जनानां सर्वाङ्गीण विकासाय अतिमहत्त्वपूर्ण विद्यते । अत्र अनुशासनस्य अतीव महत्त्वं वर्त्तते । अनुशासितरूपेण सदाचारस्य संयम-नियमान् पालयनेव छात्राः स्व लक्ष्यं प्राप्तुं क्षमाः भवन्ति । सफल छात्रजीवनमेव मानवतायाः विकासक्रमस्य प्रथमं सोपानम् अस्ति । अत्र छात्राः अध्ययनेन परस्परं ज्ञानानां आदान-प्रदानेन च स्वज्ञानवध नं कुर्वन्ति । शिक्षकोपदेशेन ते स्वचरित्रनिर्माणं कुर्वन्ति । सर्वेषां महापुरुषाणां छात्रजीवनं तेषां चरित्र निर्माणे अतिमहत्त्वपूर्णम् आसीत् ।
22. प्रदूषणम्
आधुनिकस्य विश्वस्य विकटतमा समस्या प्रदूषणम् अस्ति। एतेन न केवलं मानवजातिः अपितु संपूर्ण प्राणिजगत् व्याकुलं वर्त्तते । प्रदूषणस्य अनेके प्रकाराः सन्ति। यथा – ध्वनि प्रदूषणं, वायु प्रदूषणं, जलप्रदूषणं च । उद्योगानां घर्घर ध्वनि, वाहनानां तीव्र : कर्कशः च ध्वनि अस्माकं कर्णान् वधिरी करोति, मानसिक क्लेशं च जनयति । एतेन अनेके रोगाः उत्पद्यन्ते । प्रदूषितेन जलेन अपि अनेके रोगाः जायन्ते । एतत् प्रदूषणं मानवजातेः कृते विनाशकारी वर्त्तते ।
23. आदर्शः छात्रः
आदर्शः छात्रः अत्यन्तपवित्रः भवति । आदर्श छात्रे तपस्विनः भावना भवति । कथ्यते यत् छात्राणाम् अध्ययनमेव तपः । ये छात्रा : आदर्शमूलकाः भवन्ति तेषां पावें अध्ययनादतिरिक्तं न किमपि भवति । आदर्श छात्रः गुरुशिष्योः सम्बन्धं निर्वहति । शासितुं योग्य शिष्यः । अर्थात् आदर्शछात्राः अनुशासनीयाः भवन्ति, गुरोः आज्ञाकारिणः भवन्ति, अध्ययनरताश्च भवन्ति । आदर्श छात्राः भविष्यणवः भवन्ति ।
24. क्रिकेट क्रीड़ा
अन्तरराष्ट्रीय क्रीडासु लोकप्रियं वर्त्तते, क्रिकेट खेलनम् । अस्यारम्भः आङ्गलदेशे अभूदिति मन्यते । टेस्ट श्रृंखला, एकदिवसीयं विंशति विंशति चेति अस्य प्रमुखाः भेदाः सन्ति । अस्य खेलनस्य कृते विशालक्रीडाप्राङ्गणे धावनस्थलं, विकेटानि, क्रीडादण्ड कंदुकं चेति आवश्यकानि भवन्ति । अस्मिन् क्रीडकाः द्विदले विभक्तं भूत्वा क्रीडन्ति । प्रतिदले नायकः उपनायकः विकेटरक्षकश्च संयोज्य एकादशः क्रीडकाः भवन्ति । क्रीडकाः धवनस्थले धावयित्वा धावनं ( रनम् ) निर्मान्ति । धावनेनैव दलविशेषस्य जयः पराजयश्च भवतः। सम्प्रति आबालवृद्धानां कृते खेलोऽयम् अतिलोकप्रियः विद्यते ।
25. क्रीडनम् (खेल)
अस्माकं देशे बहुविधानि क्रीडनानि सन्ति । कानिचित् राष्ट्रीयस्तराणि कानिचित्
क्षेत्रीयाणि कानिचित् अन्तरराष्ट्रीयानि च सन्ति । क्रीडनानि अपि बहुविधानि भवन्ति । केचित् कन्दुकेन क्रीड्यन्ते, केचित् पाणिपतंगेन (बॉलीबॉल) केचित् पक्षैः (बैडमिण्टन), केचित् च दण्डेन कन्दुकं क्षिपत्वा, केचित् तडागेषु तरणं कृत्वा, केचित्उ च्चैः कूर्दयित्वा, केचित् दुरं लङ्घयित्वा, केचित् अन्यान् स्पृष्ट्वा च । अस्माकं भारते, जगति अन्येषु च देशेषु बहुविधानां क्रीडनानां समारोहपूर्वकमायोजनं भवति । गतमासे रूस देशस्य मास्को नगरे अन्तरराष्ट्रीय खेल समारोहः अभवत्। यस्मिन् बहूनां देशानां क्रीडका: : पुरस्काराः प्राप्ताः ।
26. अस्माकम् विद्यालयः
अयं अस्माकं विद्यालयः अस्ति । अस्य भवनानि भव्यानि श्वेतवर्णानि च सन्ति । अस्य प्रधानाध्यापक: बहुज्ञः व्यवहारः कुशलः छात्रप्रियः च अस्ति । अत्र विंशतिः अध्यापकाः सन्ति । एते सर्वे सुयोग्याः सन्ति । अत्रः बहवः छात्राः सन्ति । छात्राः अनुशासन प्रियाः सन्ति । विद्यालयस्य क्रीडाप्रांगणं सुविस्तृतम् हरितदूर्वाः छन्नम् च अस्ति । सांयकाले तत्र छात्राः क्रीडन्ति । अयं विद्यालयः अस्माकं गौरवा: पदम् अस्ति । अत्र प्रत्यब्दं समारोहा: भवन्ति । अत्र छात्राणां शारीरिक-मानसिक बौद्धिक- अध्यात्मिक – योग्यताविकासाय अहर्निशं प्रयतते ।
27. विद्यालयोत्सवः
सर्वेषु विद्यालयेषु उत्सवाः भवन्ति । अस्माकं विद्यालये गणतन्त्रदिवसे विशेष : उत्सवः भवति । अस्मिन् दिवस प्रातःकाले ध्वजोतोलनम् तदन्तरम् देशभक्तियुतानां गानानाम् गायनम् जायते। छात्राणाम् अध्यापकानाम् च देशभक्ति – छात्र – कर्मविषयम् अवलम्ब्य भाषणम् अपि भवति । अस्माकं विद्यालयं मध्याह्ने क्रीडाप्रतियोगिता । सायंकाले च सांस्कृतिक कार्यक्रमः आसीत् । प्रसादप्रणीतस्य ‘चन्द्रगुप्त’, नाटकस्य अनुष्ठानम् अतिरोचकम् आसीत् । नाटकाभिनयाय गीताय च छात्राः पुरस्कृताः अभवन्।
28. आदर्शग्राम: ( अस्माकम् ग्रामः )
मम ग्रामस्य नाम चिरंजीविपुरम् इति अस्ति । अयं ग्रामः कृषि प्रधान ग्रामः वर्त्तते परन्तु अत्र आवागमनस्य समुचितं सौविध्यं वर्त्तते रेलमार्गस्य सड़कमार्गस्य च । विद्युत् व्यवस्थापि समुचिता विद्यते ग्रामोऽयं निर्मल ग्राम योजनया सम्बद्धः अस्ति । अत्र ग्रामे स्वास्थ्य उपकेन्द्रम्, पंचायत सरकार भवनं, बालविकास शिक्षा परियोजना केन्द्रम्, कृषि सलाह केन्द्रञ्च वर्त्तन्ते । अत्र प्राथमिक-मध्य- माध्यमिका: विद्यालयाः संचालिताः सन्ति यत्र ग्रामस्य छात्रछात्राः शिक्षां गृह्णन्ति । सुशिक्षिताः ग्रामवासिनः परस्परं मैत्री भावेन निवसन्ति यदाकदा याकाचित् पारस्परिक आपात् समस्याः समापतन्ति तासां समाधानं ग्रामे एव जायन्ते । अयं ग्रामः आदर्श ग्राम रूपेण विकसितः वर्त्तते ।
29. सत्संगति : (सत्सङ्गतिः )
सतां / सज्जनां संगतिः सत्संगतिः कथ्यते । सज्जानां संगत्या हृदयं विचारं च पवित्रं भवति। अनया जनः स्वार्थभावं परित्यज्य लोक कल्याणकामः भवति । दुर्जनानां संगत्या दुर्बुद्धिः आयाति । स्वाति नक्षत्रस्य जलमपि सर्पाणां संगत्या विषं भवति । परन्तु तत् जलं कदलीपत्रस्य सम्पर्क आगत्य कर्पूरं भवति । अतएव कथ्यते – सत्संगतिः कथय किं न करोति पुसांम् ।
30. भारतीय संस्कृतिः
संस्क्रियते अनेन इति संस्कारः । ये संस्काराः मानवनां जीवने अविच्छिन्नरूपेण सन्निहिताः जायन्ते ते एव संस्कृतिरूपेण अवगम्यते । प्रतिदेशस्य स्थानविशेषस्य वा संस्कृतिः स्व स्व वैशिष्ट्येण परिपूर्णाः भवन्ति । ते एव तत्रत्यानां जनानां परिचायिका भवति । भारतीय संस्कृतेः वैशिष्ट्यं विद्यते यत् अत्रत्यानां जनानां मनसि अतिथि देवो भव, आचार्यः देवो भव, पितृदेवो भव, सत्यं वद इत्यादयः भावनाः सदा विद्यमाना विद्यन्ते आगतेषु विशिष्टेषु अवसरेषु भारतीयानां व्यवहारेषु एतानि वैशिष्ट्याणि परिलक्ष्यन्ते एव / एभिः सद्संस्कारयुताभिः संस्कृतिभिरेव भारतं विश्वे जगद्गुरोः प्रतिष्ठाम् प्राप्तवान् अस्ति । अतः अस्मिन् ग्लोबलाइजेशन कालेऽपि अस्माभिः स्वसंस्कृतिः
संरक्षणीया ।
31. शिक्षकदिवस:
अस्माकं पूर्व राष्ट्रपतिः सर्वपल्ली राधाकृष्णन् महाभागः शिक्षकः दार्शनिकश्च आसीत्। तस्य जन्म सितम्बर मासस्य पञ्चम्यां तिथौ अभवत् । स महानुभावः शिक्षायाः उन्नतये शिक्षकाणां कल्याणाय च सततं प्रयत्नशीलः आसीत् । अतएव जना तस्य जन्मदिवसं शिक्षकदिवसरूपेण आयोजयन्ते । प्रतिवर्षं तस्य जन्मदिने विद्यालये महाविद्यालये अन्ये च शिक्षण संस्थाने शिक्षकाणां विशेषरूपेण सम्मानं क्रियते । तेषां सम्माने च सांस्कृतिककार्यक्रमाः आयोजयन्ते । छात्राः अस्य दिवसस्य आयोजनं श्रद्धाभक्त्या च कुर्वन्ति ।
32. सदाचार
सताम् आचारः सदाचारः कथ्यते । आचारः द्विविधः भवति । मानसिक आचारः शारीरिक – अचारश्च । सज्जनाः यानी सद्कर्मणि कुर्वन्ति तानि एव् अस्माभिः करणीयाणि । पुरा सर्वे भारतीयाः सदाचारिनः भवन्ति स्म । सदाचरणशीलः मनुष्य सर्वत्र पूज्यते । वयम् सदाचारिणः भवेयुः ।
33. शिक्षा:
कस्यचिदपि विषयस्य यथोचितं ज्ञानं शिक्षा उच्यते । इयं वेदानाम् अंगम् अस्ति। कथ्यते ‘ शिक्षा घ्राणंतु वेदस्य’ सम्प्रति शिक्षा मानवसंसाधनविकासरूपेण ज्ञायते । कोऽपि मानवः शिक्षां प्राप्य कदापि दुःखं न आप्नोति । शिक्षां विना मानवस्य कार्य सम्पन्नं न भवति । मानवसुखाय इयम् एका अनिवार्या उपकरणा अस्ति । सर्वत्र अस्या अपेक्षा वर्त्तते ।
34. अनुशासनम्
शासनस्य आदेशस्य नियमस्य मर्यादायाः च पालनं एव अनुशासनं भवति । याः मर्यादाः जीवनस्य क्षेत्रेषु सुखं जर्धभक्ति तासाम्, सम्यक् पालनं सर्वसुखाय भवति । प्रातः शीघ्रं जागरणीयम् ततः मलशुद्धिः स्नानं व्यायामादिकं च करणीयम् इत्येयम् अनुशासनम् स्वसुखाय सर्वसुखाय च पालनीयम् भवति । दिने कठिन परिश्रमः रात्रौ च सुखने विश्रामः इत्येयम् अनुशासनम् । परस्परमं स्नेहस्य व्यवहारः कर्त्तव्यः इत्येयम् अनुशासनं सर्वेषाम् उन्नतये भवति । अनुशासनं जीवनौषधं वर्त्तते परम् अनुशासनहीनता जीवनाय विषसदृशं भवति । अतः सर्वैः सदा अनुशासनं सेवनीयम् ।
35. पाटलिपुत्रम्
‘पाटलिपुत्रम्’ अति प्राचीननगरम् ‘पटना इति नाम्ना प्रसिद्धं सम्प्रति । गंगायाः तटे अवस्थितं वर्त्तते इदं नगरम् । बिहार राज्यस्य राजधानीनगरमस्ति पटना । अत्र गोलगृहं, संग्रहालयः, जैविकोद्यानं, गुरु गोविन्द सिंह जन्मस्थानं, सचिवालय भवनं, राज्यपाल भवनं, शहीद स्मारक : चेति दर्शनीयानि वर्त्तन्ते । अत्रैव गंगातटे पटना विश्वविद्यालयः वर्त्तते। यः विश्वविख्यातः अस्ति । महात्मा गाँधी सेतुः अपि अत्रैव अस्ति यः विश्वस्य सेतुषु द्वितीय स्थानीयः विद्यते । पटनाया इतिहास: अति गौरवशाली वर्त्तते ।
36. गंगानदी
अस्माकं देशे सर्वासु नदीषु गंगा अतिश्रेष्ठा प्रधाना प्रवित्रतमा च वर्तते । इयम्
हिमालयात् निःसृत्य बंगोप- सागरे पतति । अस्याः पावने तटे बहवः विशाला: प्राचीनाः
नगर्यः स्थिताः सन्ति । यथा- हरिद्वार, प्रयागः, वाराणसी, पाटलिपुत्रादि । अस्माकं सभ्यता संस्कृति एषु नगरेषु उन्नता जाता। गंगा एव भारतवर्षस्य धार्मिक विचारधारायाः परिचायिका अस्ति । चिरकाल रक्षितेऽपि गंगाजले कीटाणु न प्रभवन्ति । अतएव गंगानदी नित्या पूजनीया, वन्दनीया, सेवनीया च गंगास्मरणमात्रेण पापः शिरः धुनोति इति कथ्यते ।
37. परीक्षा
अस्माकं परीक्षा प्रतिवर्ष त्रिवारम् भवति । परीक्षान्तरं परीक्षाफलञ्च प्रकाशितं भवति । ये छात्राः मनोयोगेन पठन्ति ते परीक्षासु नूनं उत्तीर्णाः जायन्ते । परीक्षा पठनपाठनविषयेषु छात्राणम् रूचिं गतिञ्चान्वेष्टुमायोजिताः भवन्ति । वयम् दशमे वर्गे पठित्वा बिहार विद्यालयपरीक्षासमित्यायोजितपरीक्षायां सम्मिलिताः भूत्वा उत्तीर्णतोपरान्तम् च प्रवेशिका परीक्षोत्तीर्णताया: प्रमाणपत्रं प्राप्नुयामः । सर्वेषु देशेषु परीक्षैव ज्ञानस्य मानदण्डः अस्ति । यदि छात्राः ज्ञानार्जने मनोदध्युस्तदा परीक्षाया आवश्यकता नास्ति ।
38. विद्या (विद्या धनं सर्वधन – प्रधानम्)
विद्याधनं सर्वेषु धनेषु प्रधानं अस्ति । विद्यायाः दशे विदेशे च समादरं भवति । विद्याधनं दानेन वर्द्धते। संचयेन च क्षयं गच्छति । इदं धनं चौरः अपि न चोरयितुं समर्थः भवति । विद्या मनुष्याणाम् सर्वामावश्यकतां पूरयितुं समर्था अस्ति । इयम् सर्वांगीण विकासस्य सम्पादिका अस्ति। अतएव सत्यमेव कथ्यते विद्याधनं सर्वधनप्रधानम् ।
39. यात्रा – वर्णनम् (भ्रमणम् )
रमणीये कार्तिकमासे अवकाशः आसीत् । अस्माकं विद्यालयीयाः छात्रा : अध्यापकाभ्याम् सह मनोरंजनयात्रायै काशीं प्रस्थिताः । तत्र वयं दशाश्वमेघघटटे स्नानम् अकुर्म । काशी विश्वनाथस्य दर्शनम् कृत्वा अन्नपूर्णायाः दर्शनम् अकुर्म । गंगायाः पावने तटे हिन्दू विश्वविद्यालय परिसरे एव अतिरमणीयं विश्वनाथमन्दिरम् वर्त्तते। संस्कृत विश्वविद्यालयः दर्शनीयः अपि अस्ति । त्रिभिः दिवसैः सर्वाणि स्थानानि दृष्ट्वा वयम् चतुर्थदिवसे प्रत्यागताः । यात्रा अतिरमणीया ज्ञानवर्द्धिका च जाता।
40. भारतीय कृषकः
भारतवर्षम् एकः कृषिप्रधान देशः वर्त्तते । भारतीयकृषकः सरलहृदयः उद्यमशीलः च भवति । इदानीम् कृषकाणां स्थितिः चिन्तनीया वर्त्तते । तेषां जीवनस्तर : निम्नाभिमुखी वर्त्तते । सर्वदा ऋणेन ग्रस्तः सः अहोरात्रम् जीवनयापनस्य चिन्तायां निमग्नः प्रतिभाति । शनैः शनैः तस्य स्थितिः दृढतरा भविष्यति । सत्यम् उच्यते—” कृषकाणाम् उन्नतौ भारतस्य उन्नतिः ।
41. बिहारस्य मुख्यमन्त्री
सम्प्रति बिहारस्य मुख्यमंत्री वर्त्तते श्री नीतीश कुमारः । श्री कुमारः सच्चरित्रः, सुशील, सदाचारी, मितभाषी, कुशलशासकश्च विद्यते। सद्गुण सम्पन्नोऽयंजनः ‘जनता दल (यू०) ‘ इति नामधेयस्य दलस्य प्रमुखः अस्ति । नव वर्ष पूर्वतः एवोऽयं महानुभाव: शासयति बिहारराज्यम् । अस्य शासनकाले बिहारराज्यम् सर्वविधविकासं कृतम् अस्ति । अनुशासनप्रियेनानेन जनेन स्वशासनकौशलाय विकासकार्याय च राष्ट्रीयः
अन्तराराष्ट्रीयः चानेकानि अलङ्करणानि प्राप्तानि । जनैः विकासपुरुषः इति अपरनाम्ना
विख्यातोऽयं जनः संजातः अस्ति स्वकर्मना।
42. विज्ञानस्य चमत्कारः
आधुनिक काले विज्ञानस्य महती प्रतिष्ठा वर्त्तते । सम्प्रति बहवः आविष्काराः विज्ञानस्य हेतोः भूताः । एतेषाम् आविष्काराणां साहाय्येन मानवः इमां पृथ्वीं स्वर्गे परिवर्त्तयितुं प्रयत्नशील : विद्यते इति प्रतीयते । जीवविज्ञान क्षेत्रे, चिकित्सा क्षेत्रे, खगोल क्षेत्रे अन्येषु च अनेकेषु क्षेत्रेषु विज्ञानस्य चमत्काराः दृश्यन्ते । विज्ञानं अद्य एकस्मिन् पक्षे मानवानां कृते वरदानं भूतम् परन्तु अपरस्मिन् क्षेत्रे च अभिशापम् अपि जातम् । यदि अस्य उपयोगः संसारस्य मंगलाय क्रियते, तर्हि शोभनम्, अन्यथा सर्वनाशोऽप्यवश्यमेव भविष्यति । अतः अस्माभिः विज्ञानस्य उपयोगः मंगलाय करणीयः ।
43. दूरदर्शनम्
दूरदर्शनम् आधुनिक विज्ञानस्य एकः अद्भुतः आविष्कारः अस्ति । इदं मनोरञ्जनस्य साधनं अस्ति । अस्य यन्त्रस्य प्रथमः मार्गदर्शक: पालनिपकः अभवत्। तत्पश्चात् जान एल बेयर्ड महोदय: सफल आविष्कारकः अभवत् । अस्य सफलः प्रयोगः आङ्गलदेशे १९३५ तमे वर्ष अभवत् । सम्प्रति प्रायः सर्वेषु सम्पन्नगृहेषु दूरदर्शनम् विराजते । सम्प्रति ज्ञान-विज्ञान प्राप्तेः इदं सर्वोत्तम माध्यमं वर्तते ।
44. देशभक्तिः
देशस्य भक्तिः देशभक्तिः इति कथ्यते । भक्तिशब्दः सेवायाः पर्यायवाची अस्ति । देशः एव अस्मभ्यं भोजनं, निवासम्, जीवनस्य सर्वविधं साधनं च ददाति । पुरा अस्माकं देशः पराधीनः आसीत् किन्तु देशभक्तैः गान्धिप्रभृतिभिः नेतृभिः महतां त्यागेन, तपसा, बलिदानेन च देश: स्वाधीनः कृतः । सर्वासु भक्तिषु देशभक्तिरेव श्रेष्ठा कथ्यते । अस्माकं देशे अनेक देशभक्ताः अभवन् । तेषु लक्ष्मीबाई – राणाप्रताप’ -शिवाजीकुंवरसिंहादयः प्रमुखाः देशभक्ताः आसन् । अतः सदा अस्माभिः भारतवासिभिः देशं प्रति भक्तिः प्रदर्शनीया ।
45. पर्यावरण रक्षा
परितः आवरणं पर्यावरणं कथ्यते । वयं यैः यैः परितः आवृत्ताः स्मः ते सर्वे एव अस्माकं पर्यावरणे समाहिताः सन्ति वयं सदा भूजलवायुवृक्षनदीनिर्झर – पर्वताभिः परिवृत्ताः भवामः अतएव इमे अस्माकं पर्यावरणे सन्निहिताः सन्ति । अस्माकं जीवने तेषां सर्वेषां महत् महत्त्वमस्ति। यतः तैः सदा अस्माकं जीवनं प्रभावितं भवति । यदि ते स्वस्थाः, सुरक्षिताः दोषमुक्ताः च भवन्ति तदा अस्माकं जीवनम् अपि स्वस्थं सुरक्षितं दोषमुक्तं च भवन्ति । अतः स्वकीय स्वस्थजीवनाय स्वपर्यावरणस्य सुरक्षा संरक्षा च अस्माभिः स्वयं कार्या इति अस्माकं परमं कर्त्तव्यम् ।
46. गुरुभक्तिः
गुरोः भक्तिः गुरुभक्तिः तच्च परमाभक्तिः भवति । मानवानां जीवने गुरोः सम्बन्धः अतीव श्रेष्ठः कथ्यते । गुरोः कृपया एव छात्राः आदर्शाः भवन्ति । आरुणे: गुरुभक्तिः ग्रन्थेषु श्रूयते । अस्माकं पितरः जन्महेतवः भवन्ति परं गुरुणा एव मानवः मानवो भवति । अस्माकं ‘कृते गुरुः देवः भवति। अतएव शास्त्रेषु सर्वत्र गुरोः महिमा गीयते कथ्यते तस्मै श्री गुरवे नमः ।
47. गौ:
गौंः अस्माकं माता अस्ति । अस्याः दुग्ध दधिघृतादिपानेन अस्माकं पोषणं भवति । मानवी माता ‘कतिचित् एव वर्षाणि पयः पाययति किन्तु एषा माता यावत् कण्ठे प्राणाः तिष्ठन्ति तावत् पयः पाययति अस्याः मूत्रपानेनापि आमयानि नृयन्ति । अस्याः गोमयेन गृहणी उपलिप्यन्ते । गोमस्य उर्वरक : उत्कृष्टः भवति । अनेन भूमिः उर्वराशक्तिः रक्ष्यते । गवाम् वत्सा वलीवर्दा भूत्वा अस्माकं क्षेत्रकर्षणं कुर्वन्ति, कूपेभ्यः जलं कर्षन्ति, शकटानि च वहन्ति । गोधन कृषिप्रधानस्य भारतस्य बहुमूल्यं धनं अस्ति। गवाम् रक्षणायैव ईश्वरोपि अत्रः गोपालः अभवत् ।
48. स्वतंत्रता दिवस:
पुरा अस्माकं देशः परतंत्रः आसीत् । आंग्लाः अस्मान् शासयन्ति स्म । भारतीयाः स्वातन्त्र्यं कामयन्ते स्म । एतदर्थं ते पूर्वं हिंसात्मकम् आंदोलनं कृतवन्तः परं सफलाः नाभवन्। पुनः महात्मा गाँधी महोदयस्य नेतृत्वे अहिंसात्मकं वृहदान्दोलनं जातम् आंग्ला: विचलिताः जाताः । तदा-1947 तमे खष्टाब्देः अगस्त मासस्य 15 तारीकायाम् आंग्लाः भारतं स्वतन्त्रं कृत्वा स्वदेशं प्रति पलायिताः । तदा प्रभृति वयं प्रतिवर्षम् अगस्त मासस्य 15 तारीकायां स्वतन्त्रता दिवसः महदुल्लासेन आघोषयामः ।
49. आतंकवाद:
आतंकवादः अधुना विश्वस्य महती समस्या वर्त्तते । सर्वत्र एव इयं समस्या दृश्यते। आतंकवादकारणात् हिंसा पिशाचिनी यत्र-तत्र स्वकीयं ताण्डवं दर्शयति एवञ्च शान्तिप्रवणानां जनानां मानसम् उद्वेलयति । संसारस्य समस्यासु इयमेका चिन्तनीया समस्या वर्त्तते । स्वार्थप्रवृत्तिः एव अस्याः मूलकारणं वर्त्तते । दुःखेन त्रस्ताः कार्यरहिताः जनाः अविवेकशीलो भूत्वा आतंकवादम् अनुसरन्ति । भारतीयचिन्तने अस्य समाधनं वर्त्तते ।
50. पुस्तकालयः
पुस्तकानाम् आलयः पुस्तकालयः कथ्यते । पुस्तकालये नाना- विषय विभूषिताना पुस्तकनां संग्रहः भवति । सर्वजनानां कृते पुस्तकालयः प्रियः भवति यतोहि पुस्तकालय: जनेषु ज्ञानविज्ञानस्य प्रसारकः अस्ति । विदुषां मते पुस्तकालय ः ज्ञानरत्नाकरः एव वर्त्तते । पुरा भारते अनेके विश्वविख्याताः पुस्तकालयाः आसन् । पुस्तकालयाः अनेक विद्याः भवन्ति – राज्य पुस्तकालय, केन्द्रीय पुस्तकालयः, ग्राम पुस्तकालय:, विज्ञान पुस्तकालयः इत्यादयः। पुस्तकालयः अनौपचारिक शिक्षायाः प्रमुख आधारः अस्ति, यत्र नाना आयुवर्गस्य, विविध बौद्धिकस्तरस्य जना:- एकत्रीभूत्वा ज्ञानार्जनं कुर्वन्ति ।
51. एकता
एकत्वभावेन यत् किंचित् क्रिये तदेव एकता कथ्यते। अधुना एकतायाः अतुलं महत्त्वं विद्यते। एकतां बिना न कोऽपि बलवान् भवितुं शक्नोति । साधनहीनाः अपि जनाः एकतायाः प्रभावेन सर्वं साधयितुं समर्थाः भवन्ति । एकत्व भावविहीन : समाज : कुत्रापि सफलं भवितुं न अर्हति । एकताया एव जनाः सर्वत्र सफलतां प्राप्नुवन्ति । अतएव कथ्यते— ‘एकतायामेव बलम् लोके’।
52. रेलयान – यात्रा
एकदा दुर्गापूजावकाशसमये कतिपयैश्छान्त्रैर्मिलित्वा रेलयानस्य (वाष्पयानस्य) यात्रां विधातुं निश्चयः कृतः । अद्य तैः सर्वसम्मत्या काशीतीर्थयात्रायै अन्तिम निर्णयो विहितः । आश्विनमासस्य शुक्लपंचम्यां तिथौ वयं स्व-स्व गृहेभ्यः अत्यावश्यकानि यात्रोपयोगीनि वस्तुनि आदाय सुलतानगंजवाष्पयानविश्रामस्थानं प्रप्ताः। यथाकालञ्चागत वाष्पयानम् आरुह्य द्वितीय श्रेण्यां प्रस्थिताः वयम्। पथि वेगवतियाने स्थिता वयं बहुविधेन हास्येन मनोविनोदकारिणा संगीतेन निरुद्देश्येन कोलाहलेन च परमानन्दमनुभवन्तो रेलयानयात्रा – सुखमनुभवाम| काश्यां गंगायां वयं स्नात्वा भगवतो विश्वनाथस्य दर्शनं कृतवन्तः । एवं दिनत्रयं तत्र निवासं विधाय वाराणसीतः द्रुतवाष्पयानेन प्रत्यागता वयं स्व निवासस्थानमिति ।
53. वृक्षारोपणम्
पर्यावरणप्रदूषणं सम्प्रति संसारस्य एका महती समस्या अस्ति । अस्याः समस्यायाः मूलं वनविनाशः अस्ति। अद्य समुचितेभागे वृक्षाः नास्ति । वस्तुतः जीवनरक्षायै पर्यावरणस्य रक्षा अनिवार्या अस्ति । कथ्यते, ‘रक्षितः धर्मो यथा रक्षति तथैव रक्षितः वृक्षो ऽपि जनान् रक्षति । जगहिताय वृक्षाणां महत्त्वः पुत्रेभ्यः अपि महत्तरः वर्त्तते । अतः सर्वप्रकारेण एषां सुरक्षा करणीया ।
54. चलचित्रम्
सम्प्रति मनोरञ्जनस्य उपलब्धेषु संसाधनेषु चलचित्रं सामान्यजनसुलभं लोकप्रियं च वर्त्तते । इदं वैज्ञानिकविधिना दृश्यकाव्यस्य यान्त्रिक प्रस्तुतिः वर्त्तते । चलचित्रगृहेषु चलचित्रमाध्यमेन वयं सामाजिकानां जीवनानि तेषां नानाविधरूपाणि च पश्यामः । इदं प्रचारस्य सुगमं सरलञ्च साधनं विद्यते । अनेनैव अहिन्दी क्षेत्रे हिन्द्याः प्रचारः जातः । चलचित्रनिर्माणं वर्त्तमान- युगस्य एकः महान् उद्योगः अस्ति। शोभनं चलचित्रं मनोरञ्जनेन सह जनानां चरित्रनिर्माणम् अपि करोति ।
55. भारतवर्षम् / अस्माकं देश:
अस्माकं देशः भारतम् अस्ति । अयं महान् देशः अस्ति । अस्य प्राचीनं नाम आर्यावर्तः आसीत्। दुष्यन्त-पुत्रस्य भरतस्य नाम्ना अस्य नाम भारतम् अभूत् । अधुना अस्माकं देशे अनेकभाष-भाषिणः नाना धर्मावलम्बिनः च जनाः निवसन्ति । अस्य भौगोलिकी स्थितिः अतीव मनोहरा अस्ति । अस्य उत्तरदिशायां पर्वतराजः हिमालयः अस्य मुकुटमिव शोभते । दक्षिण – दिशि हिन्दमहासागरः अस्य चरणौ प्रक्षालयति । अस्य देशस्य सभ्यता संस्कृतिश्च अतीव प्राचीने स्तः । अस्माकं देशः शान्तिप्रेमी अस्ति।